कथासारः
प्रथमः भागः — यात्रा एवं संकटः : ग्रीष्मावकाशे कतिचन मित्राणि पुण्यक्षेत्रदर्शनाय उत्तराखण्डं देवभूमिं गच्छन्ति। श्रीकेदारक्षेत्रम् आरोहन्तः एव सहसा प्रबला वृष्टिः आरभते, अन्धकारः प्रसरति, सेतुः भग्नो भवति तथा पर्वतस्खलनं जायते। सर्वे भयभीताः ईश्वरं प्रार्थयन्ति। तदा नायकः धैर्येण सर्वान् सान्त्वयति व प्रेरयति यत् संकटकाले धैर्यम् अवलम्ब्य उपायः चिन्तनीयः।
द्वितीयः भागः — हितोपदेशस्य कथा : धैर्यसंचारार्थं नायकः हितोपदेशस्य एकां कथां श्रावयति — गोदावरीतीरे एकः विशालः शाल्मलीवृक्षः आसीत्, यत्र चित्रग्रीवनामा कपोतराजः स्वपरिवारेण सह निवसति स्म। एकः व्याधः तण्डुलकणान् विकीर्य जालं विस्तार्य छद्मरूपेण स्थितः। लोभाकृष्टाः कपोताः तण्डुलकणान् भोक्तुं अवतीर्य जाले बद्धाः अभवन्। चित्रग्रीवः सर्वान् सान्त्वयित्वा उपदिशति — "अल्पानामपि वस्तूनां संहतिः कार्यसाधिका" — अतः सर्वे एकचित्तीभूय जालम् आदाय उड्डीयन्ते, व्याधात् दूरं गत्वा। तदनन्तरं चित्रग्रीवस्य मित्रं हिरण्यकनामा मूषकराजः स्वदन्तबलेन सर्वेषां पाशान् छित्त्वा तान् मुक्तान् करोति।
तृतीयः भागः — प्रेरणा एवं परिणामः : कथां श्रुत्वा नायकः सर्वान् बोधयति — यदि आपद्ग्रस्ताः कपोताः संघटनसामर्थ्येन आत्मरक्षां कर्तुं समर्थाः अभवन्, तर्हि वयमपि संघटिताः भूत्वा किमर्थं न कुर्याम? नायकस्य प्रेरकवचनैः उत्साहिताः सर्वे मित्राणि भयं शोकं सन्देहं च विहाय सेतुनिर्माणकार्ये संलग्नाः भूत्वा भगीरथप्रयत्नैः सेतुं निर्माय स्वप्राणान् अन्येषां च प्राणान् संरक्षितवन्तः।