WHATSAPP Welcome to Edugrown – Your Learning Partner
← Back to Study Content
NCERT Solution

Ch-1 "सत्यं शिवं सुन्दरं संस्कृतम्" (Satyam Shivam Sundaram Sanskritam) Class 9th Sanskrit (Sharda) NCERT Solution-

Class 9 · Sanskrit (Sharda) · Chapter-1: सत्यं शिवं सुन्दरं संस्कृतम् (Satyam Shivam Sundaram Sanskritam) · All Board · ENGLISH · 13 views

Ye material inke liye bhi hai: All Board BIHAR BOARD CBSE CHHATTISGARH BOARD JHARKHAND BOARD MP BOARD NIOS RAJASTHAN BOARD UP BOARD
🦚
प्रथमः पाठः  •  कक्षा ९  •  शारदा

सत्यं शिवं सुन्दरं संस्कृतम्

रचयिता — पण्डितः वासुदेव-शास्त्री-द्विवेदी • सम्पूर्ण-समाधानम्

पाठ-परिचयः, श्लोक एवं भावार्थः

पाठ-सारः (Introduction)

संस्कृतं भारतदेशस्य सम्पत् अस्ति। अस्मिन् भारतीयानां ज्ञानवैभवं सञ्चितम् अस्ति। संस्कृताध्ययनेन मानवः सुसंस्कृतः भवति। प्रस्तुते पाठे कविः वासुदेव-शास्त्री-द्विवेदी-महाभागः "संस्कृताध्ययनेन किं किं साधितं भवति" इति विषयम् अधिकृत्य षट् मधुरानि गीतानि प्रस्तौति।

boys studying Sanskrit
संस्कृताध्ययनेन ज्ञानप्रकाशः
unity
भारतीयैकतासाधकं संस्कृतम्।
भारतीयत्वसम्पादकं संस्कृतम्।
ज्ञानपुञ्जप्रभादर्शकं संस्कृतम्।
सर्वदानन्दसन्दोहदं संस्कृतम्॥
भावार्थः— संस्कृतभाषा भारतीयानाम् ऐक्यं साधयति, भारतीयत्वं सम्पादयति, ज्ञानसमूहस्य प्रभां दर्शयति, सर्वदा च आनन्दस्य परम्परां जनयति।
सर्वमस्तिष्कसंस्कारकं संस्कृतम्।
सर्ववाणीपरिष्कारकं संस्कृतम्।
सत्पथप्रेरणादायकं संस्कृतम्।
सद्गुणग्रामसन्धायकं संस्कृतम्॥
भावार्थः— संस्कृतं सर्वेषां जनानां मनः शोधयति, सर्वाणि वचनानि परिष्करोति, सन्मार्गं दर्शयति, सद्गुणानां समूहम् एव उत्पादयति।
विश्वबन्धुत्वविस्तारकं संस्कृतम्।
सर्वभूतैकताकारकं संस्कृतम्।
सर्वतः शान्तिसंस्थापकं संस्कृतम्।
पञ्चशीलप्रतिष्ठापकं संस्कृतम्॥
भावार्थः— संस्कृतं विश्वबन्धुत्वं वर्धयति, सर्वेषां प्राणिनाम् ऐक्यं बोधयति, सर्वत्र शान्तिं प्रतिष्ठापयति, प्रसिद्धानां पञ्चानां शीलानां रीतिं गमयति।
meditation
त्यागसन्तोषसेवाव्रतं संस्कृतम्।
विश्वकल्याणनिष्ठायुतं संस्कृतम्।
ज्ञानविज्ञानसम्मेलनं संस्कृतम्।
भक्तिमुक्तिद्वयोद्वेलनं संस्कृतम्॥
भावार्थः— संस्कृतं त्यागस्य, सन्तोषस्य, सेवायाश्च व्रतम् अस्ति; विश्वकल्याणे निष्ठायुतम्; ज्ञानविज्ञानयोः सङ्गमनम्; भोगस्य (भक्तेः) मोक्षस्य च द्वयोः उन्नायकम् अस्ति।
धर्मकामार्थमोक्षप्रदं संस्कृतम्।
ऐहिकामुष्मिकोत्कर्षदं संस्कृतम्।
कर्मदं ज्ञानदं भक्तिदं संस्कृतम्।
सत्यनिष्ठं शिवं सुन्दरं संस्कृतम्॥
भावार्थः— इहलोके परलोके च संस्कृतेन उत्कर्षः लभ्यते। धर्मस्य, कामस्य, अर्थस्य, मोक्षस्य च साधनानि संस्कृतेन लभ्यन्ते। अतः संस्कृतं सत्यं शिवं सुन्दरं च अस्ति।
शब्दलालित्यलीलावनं संस्कृतम्।
चारुमाधुर्यधारागृहं संस्कृतम्।
विश्वचेतश्चमत्कारकं संस्कृतम्।
पूर्वजानां यशःस्मारकं संस्कृतम्॥
भावार्थः— ललितपद्यानि संस्कृतवने वृक्षाः इव सन्ति। संस्कृतं माधुर्यस्य सौन्दर्यस्य च शीतलगृहम् इव आह्लादकम् अस्ति। संस्कृतस्य श्रवणेन जनाः चमत्कारं लभन्ते। एतत् अस्माकं पूर्वजैः सम्पादितस्य कीर्तिराशेः द्योतकम् अस्ति।
शब्दार्थः — सर्वं शब्देन भासते
शब्दःअर्थः (संस्कृत)हिन्दीEnglish
आमुष्मिकम्परलोकस्यपरलोक काOf the other world
उत्कर्षदम्उत्कर्षं ददाति इतिउन्नति देने वालीBestower of excellence
उद्वेलनम्उदयकृत्उत्थान करने वालाAwakener
ऐहिकम्इह लोके भवम्, संसारस्यसंसार काOf this world
कर्मदम्कर्म ददाति इतिपुरुषार्थ देने वालीBestower of righteous action
चारुसुन्दरम्मनोहरBeautiful
परिष्कारकम्संस्कारकम्शुद्ध करने वालीRefiner
पुञ्जःराशिःसमूहClump
प्रभादीप्तिःप्रकाशLight
भक्तिदम्भक्तिं ददाति इतिभक्ति देने वालीBestower of bhakti
माधुर्यधारामाधुर्यस्य धारामधुर रस की धाराFlow of sweetness
विस्तारकम्विस्तारं करोति यत्विस्तार करने वालीExpander
लीलावनम्लीलायाः वनम्क्रीडा का उद्यानGarden for play
सत्पथःसन्मार्गःसत्य मार्गNoble path
सन्दोहःसमूहःसमूहGroup
कविकाव्यपरिचयः

वाराणस्यां विद्यमानस्य "सार्वभौमसंस्कृतप्रचारकार्यालयस्य" संस्थापकः पण्डितः वासुदेव-शास्त्री-द्विवेदी-महाभागः अस्य गीतस्य रचयिता। महाशयेन सरलसंस्कृतेन बहवः ग्रन्थाः विरचिताः, संस्कृतप्रचारार्थं विपुलं साहित्यं च प्रकाशितम्। "परमार्थसुधा" इति संस्कृतपत्रिका अपि एतेन सम्पाद्यते स्म। सुरभारतीसन्देशः, स्वर्गीयसंस्कृतकविसम्मेलनम्, भोजराज्ये संस्कृतसाम्राज्यम्, कौत्सस्य गुरुदक्षिणा — इत्यादयः ग्रन्थाः अस्य सुप्रसिद्धाः सन्ति।

स्वाध्यायान्मा प्रमदः — पञ्चशीलं किम्?

बौद्धधर्मे सदाचरणस्य परिपालनाय पञ्च शीलानि सन्ति, येषाम् आचरणं मनुष्याणाम् अत्यन्तं लाभाय अस्ति—

  1. अस्तेयम् (चोरी न करना)
  2. अहिंसा
  3. ब्रह्मचर्यम्
  4. सत्यम्
  5. मादकद्रव्याणां परिहारः

अभ्यासाद् जायते सिद्धिः — अभ्यासः

समूह-गान-अभ्यासः (क्रियाकलापः)
मौखिक / कक्षा-गतिविधि

छात्राः मिलित्वा पृथक्-पृथक् पञ्चानां छात्राणां लघुसमूहान् निर्माय यति-गति-लयपूर्वकं गीतगानस्य अभ्यासं करिष्यन्ति।

मार्गदर्शनम्

यह एक सामूहिक मौखिक गतिविधि है। ५-५ छात्रों के समूह बनाएँ। प्रत्येक श्लोक को सही यति (विराम), गति (ताल) और लय (सुर) के साथ गाएँ। "संस्कृतम्" शब्द प्रत्येक चरण के अन्त में दोहराया जाता है — उस पर समवेत स्वर में बल दें।

एकपदेन उत्तरं लिखत
एक शब्द में उत्तर
यथा— ज्ञानपुञ्जप्रभादर्शकं किम्? → संस्कृतम्
उत्तराणि
(क) संस्कृतं कस्याः साधकम्?
→ भारतीयैकतायाः (श्लोक १: "भारतीयैकतासाधकं")
(ख) सर्वदा संस्कृतं कस्य सन्दोहदम्?
→ आनन्दस्य (श्लोक १: "सर्वदानन्दसन्दोहदं")
(ग) संस्कृतं कस्य प्रेरणादायकम्?
→ सत्पथस्य (श्लोक २: "सत्पथप्रेरणादायकं")
(घ) संस्कृतं कासां परिष्कारकम्?
→ (सर्व)वाणीनाम् (श्लोक २: "सर्ववाणीपरिष्कारकं")
(ङ) कस्य विस्तारकं संस्कृतम्?
→ विश्वबन्धुत्वस्य (श्लोक ३: "विश्वबन्धुत्वविस्तारकं")
पूर्णवाक्येन उत्तराणि लिखत
पूरे वाक्य में उत्तर
उत्तराणि
(क) सर्वतः कस्याः संस्थापकं संस्कृतम्?
→ संस्कृतं सर्वतः शान्तेः संस्थापकम् अस्ति।
(ख) कीदृशं व्रतं संस्कृतम्?
→ संस्कृतं त्यागसन्तोषसेवाव्रतम् (त्यागस्य, सन्तोषस्य, सेवायाश्च व्रतम्) अस्ति।
(ग) कयोः सम्मेलनं संस्कृतम्?
→ संस्कृतं ज्ञानविज्ञानयोः सम्मेलनम् अस्ति।
(घ) संस्कृतं कस्य चमत्कारकम्?
→ संस्कृतं विश्वचेतसः चमत्कारकम् अस्ति।
(ङ) केषां यशः स्मारकं संस्कृतम्?
→ संस्कृतं पूर्वजानां यशःस्मारकम् अस्ति।
रिक्तस्थानानि पूरयन्तु
रिक्त स्थान भरें (श्लोकानुसारम्)
यथा— सर्वभूतैकता-कारकं संस्कृतम्।
पूरितानि वाक्यानि
(क) भारतीयत्वसम्पादकं संस्कृतम्।
(ख) ज्ञानपुञ्जप्रभादर्शकं संस्कृतम्।
(ग) सर्वमस्तिष्कसंस्कारकं संस्कृतम्।
(घ) कर्मदं ज्ञानदं भक्तिदं संस्कृतम्।
(ङ) सत्यनिष्ठं शिवं (सुन्दरं) संस्कृतम्।
(च) शब्दलालित्यलीलावनं संस्कृतम्।
मञ्जूषायाः पदानि उपयुज्य षड् वाक्यानि रचयत
मञ्जूषा-शब्दों से छह वाक्य बनाएँ
मञ्जूषा: एकतासर्वतःसेवा सुन्दरम्पूर्वजानाम् सत्पथे प्रेरयितुम्विश्वकल्याणाय त्यागस्यसन्तोषस्य
यथा— वाणीपरिष्कारिका संस्कृत-भाषा भवति।
वाक्यानि
(क) संस्कृतं भारतीयानाम् एकतां साधयति।
(ख) संस्कृतं सर्वतः शान्तिं स्थापयति।
(ग) सेवा परमः धर्मः अस्ति।
(घ) संस्कृतं सत्यं शिवं सुन्दरम् अस्ति।
(ङ) संस्कृतं पूर्वजानां यशसः स्मारकम् अस्ति।
(च) संस्कृतं जनान् सत्पथे प्रेरयितुं समर्थम् अस्ति।
समस्तपदानां विग्रहं कुरुत
समास-विग्रह (Compound split)
यथा— भारतीयैकतासाधकम् भारतीयैकतायाः साधकम्।
विग्रहाः
(क) ज्ञानपुञ्जप्रभादर्शकम् ज्ञानपुञ्जप्रभायाः दर्शकम्।
(ख) सर्ववाणीपरिष्कारकम् सर्ववाणीनां परिष्कारकम्।
(ग) विश्वबन्धुत्वविस्तारकम् विश्वबन्धुत्वस्य विस्तारकम्।
(घ) सर्वभूतैकताकारकम् सर्वभूतैकतायाः कारकम्।
(ङ) शान्तिसंस्थापकम् शान्तेः संस्थापकम्।
(च) ज्ञानविज्ञानसम्मेलनम् ज्ञानविज्ञानयोः सम्मेलनम्।

सूत्र: षष्ठी-तत्पुरुष समास में पूर्वपद की षष्ठी विभक्ति (के/की) करके विग्रह किया जाता है — "...का/की ...करने वाला"।

पर्यायपदानि चित्वा रिक्तस्थाने लिखत
मञ्जूषा से पर्यायवाची चुनकर भरें
मञ्जूषा: उल्लासःकिरणःजगत् अनुपमातेजोराशयःमानम्
उत्तराणि
(क) विद्वांसः तेजोराशयः भवन्ति।
(ख) सूर्यस्य किरणः सर्वेषां प्राणिनां कृते हितकरः भवति।
(ग) ईश्वरं स्मृत्वा उल्लासः उपजायते।
(घ) विद्यायाः मानम् अजरं भवति।
(ङ) प्रकृतेः शोभा अनुपमा विद्यते।
(च) यत्र जगत् एकनीडं भवति।
मेलनं कुरुत (Match the columns)
मिलान करें
शुद्धं मेलनम्
(क) भारतीयैकतायाः
२. साधकम्
(ख) सत्पथे
४. प्रेरणादायकम्
(ग) त्यागसन्तोषसेवारूपम्
५. व्रतम्
(घ) ज्ञानपुञ्जप्रभायाः
३. दर्शकम्
(ङ) विश्वबन्धुत्वस्य
१. विस्तारकम्

यस्तु क्रियावान् मनुजः स विद्वान् — परियोजना

students discussing
सहपाठिभिः सह आलोचना
भाषणप्रतियोगिता — "संस्कृताधारिता भारतीयैकता"
मूल्याङ्कन-मानदण्डाः (Rubric)

"संस्कृताधारिता भारतीयैकता" इति विषयम् आधृत्य भाषणप्रतियोगिता आयोजनीया। शिक्षकः अधोलिखितबिन्दूनाम् आधारेण अङ्कान् दास्यति—

मानदण्डः
प्रवाहःप्रवाहपूर्वकं संवादं करोतिकेषुचित् बिन्दुषु विरामं, किन्तु संचारः न बाधितःकेषुचित् बिन्दुषु विरामं, संचारः बाधितःप्रायः विरामं, संचारः कठिनःसंचारः एव न जायते
शुद्धतायोग्य वाक्य-संरचनाअत्यल्पाः व्याकरण-दोषाःनैमित्तिक व्याकरण-दोषाःत्रुटिपूर्ण वाक्य-संरचनाःवाक्य-संरचना एव न
शब्दकोषःविविध प्रासंगिक शब्दकोशःशब्दावल्यां विविधताप्रासंगिक-सीमित शब्दकोशःसीमित शब्दकोशःद्वि-त्रयः एव शब्दाः
नमूना-बिन्दवः (भाषणार्थम्)

संस्कृतं भारतस्य आत्मा अस्ति। काश्मीरतः कन्याकुमारी पर्यन्तं सर्वासां भारतीयभाषाणां मूलं संस्कृतम् एव। एका भाषा सर्वान् भारतीयान् एकसूत्रे बध्नाति — एषा एव "भारतीयैकता"। वेदाः, उपनिषदः, गीता च समग्रदेशस्य साझा सम्पत्तिः अस्ति। अतः संस्कृतेन एव भारतस्य एकता दृढा भवति।

आलोचना — विश्वबन्धुत्वभावनायाः विकासः
सामूहिक चर्चा

"विश्वबन्धुत्वभावनायाः विकासाय के मार्गाः अवलम्बनीयाः" इति विषयम् अधिकृत्य सहपाठिभिः सह आलोचनां कुरुत।

चर्चा-बिन्दवः
  • "वसुधैव कुटुम्बकम्" भावनायाः प्रचारः — समस्तं जगत् एकं परिवारः इति बोधः।
  • अहिंसा एवं सहिष्णुता — सर्वेषु प्राणिषु प्रेम तथा करुणा।
  • भाषा-संस्कृति-आदानप्रदानम् — अन्यदेशीयैः सह मैत्री।
  • शान्ति-संवादः — युद्धस्य स्थाने वार्तालापेन समस्या-समाधानम्।
  • सेवा एवं त्यागः — परोपकारेण विश्वबन्धुत्वं दृढं भवति।

सुभाषितम्

संस्कृतं संस्कृतेर्मूलं ज्ञानविज्ञानवारिधिः।
वेदतत्त्वार्थसंजुष्टं लोकालोककरं शिवम्॥

भावार्थ: संस्कृत संस्कृति का मूल है, ज्ञान-विज्ञान का समुद्र है, वेदों के तत्त्वार्थ से युक्त है तथा लोक एवं परलोक दोनों को प्रकाशित करने वाला कल्याणकारी है।

teacher

॥ इति प्रथमः पाठः समाप्तः ॥

💬 Comments & Doubts

💭

Abhi tak koi comment nahi

Sabse pehle comment karne wale bano!

Apna comment likhein

Doubt ho ya suggestion — kuch bhi poochh sakte hain. Login zaroori nahi hai.

3 × 9 =

Ye sirf ye confirm karne ke liye hai ki aap robot nahi hain.

Comment publish hone se pehle admin check karta hai.

🔔 Email Updates Lein

Naya content aate hi email par pata chal jayega. Sirf wahi sections chunein jo chahiye.

🔒 Content copy nahi kar sakte